(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.291. अध्यायः 291
Mahabharata - Vana Parva - Chapter Topics
इन्द्रजिद्वधक्रोधाद्रावणेन त्वयमेव युद्धाय रामंप्रत्यभियानम् ॥ 1 ॥ तदा इन्द्रेण रामाय मातलिसनायस्य निजरथस्य प्रेषणम् ॥ 2 ॥ श्रीरामेण मायायोधिनो रावणस्य ब्रह्मास्त्रेण हननम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text

मार्कण्डेय उवाच। 3-291-0x(2716)(27119)
ततः क्रुद्धो दशग्रीवः प्रिये पुत्रे निपातिते।
निर्ययौ रथमास्थाय हेमरत्नविभूषितम् ॥ 3-291-1(27120)
संवृतोराक्षसैर्घेरैर्विविधायुधपाणिभिः।
अभिदुद्राव रामं स पोथयन्हरियूथपान् ॥ 3-291-2(27121)
तमाद्रवन्तं संक्रुद्ध मैन्दनीलनलाङ्गदाः।
हनुमाञ्जाम्बवांश्चैव ससैन्याः पर्यवारयन् ॥ 3-291-3(27122)
ते दशग्रीवसैन्यं तदृक्षवानरपुङ्गवाः।
द्रुमैर्विध्वंसयांचक्रुर्दशग्रीवस्य पश्यतः ॥ 3-291-4(27123)
ततः स्वसैन्यमालोक्य वध्यमानमरातिभिः।
मायावी चासृजन्मायां रावणो राक्षसाधिपः ॥ 3-291-5(27124)
तस्य देहविनिष्क्रान्ताः शतशोऽथ सहस्रशः।
राक्षसाः प्रत्यदृश्यन्त शरशक्त्यृष्टिपाणयः ॥ 3-291-6(27125)
तान्रामो जघ्निवान्सर्वान्दिव्येनास्त्रेण राक्षसान्।
अथ भूयोपि मायां स व्यदधाद्राक्षसाधिपः ॥ 3-291-7(27126)
कृत्वा रामस् रूपाणि लक्ष्मणस्य च भारत।
अभिदुद्राव रामं च लक्ष्मणं च दशाननः ॥ 3-291-8(27127)
ततस्ते राममर्च्छन्तो लक्ष्मणं च क्षपाचराः।
अभिपेतुस्तदा रामं प्रगृहीतशरासनाः ॥ 3-291-9(27128)
तां दृष्ट्वाराक्षसेन्द्रस् मायामिक्ष्वाकुनन्दनः।
उवाच रामः सौमित्रिमसंभ्रान्तो बृहद्वचः ॥ 3-291-10(27129)
जहीमान्राक्षसान्पापानात्मनः प्रतिरूपकान्।
इत्युक्त्वाऽभ्यहनद्रामो लक्ष्मणश्चात्मरूपकान् ॥ 3-291-11(27130)
ततो हर्यश्वयुक्तेन रथेनादित्यवर्चसा।
उपतस्थे रणे रामं मातलिः शक्रसारथिः ॥ 3-291-12(27131)
मातलिरुवाच। 3-291-13x(2717)
अयं हर्यश्वयुग्जैत्रो मघोनः स्यन्दनोत्तमः।
`त्वदर्थमिह संप्राप्तः संदेशाद्वै शतक्रतोः' ॥ 3-291-13(27132)
अनेन शक्रः काकुत्स्थ समरे दैत्यदानवान्।
शतशः पुरुषव्याघ्र रथोदारेण जघ्निवान् ॥ 3-291-14(27133)
तदनन नरव्याघ्र मया यत्तेन संयुगे।
स्यन्दनेन जहिक्षिप्रं रावणं मा चिरं कृथाः ॥ 3-291-15(27134)
इत्युक्तो राघवस्तथ्यं वचोऽशङ्कत मातलेः।
मायैषाराक्षसस्येति तमुवाच विबीषणः ॥ 3-291-16(27135)
नेयं माया नरव्याघ्ररावणस् दुरात्मनः।
तदातिष्ठ रथंशीघ्रमिमसैन्द्रं महाद्युते ॥ 3-291-17(27136)
ततः प्रहृष्टः काकुत्स्थस्तथेत्युक्त्वा विभीषणम्।
रथेनाभिपपाताथ दशग्रीवं रुषाऽन्वितः ॥ 3-291-18(27137)
हाहाकुतानि भूतानि रावणे समभिद्रुते।
सिंहनादाः सपटहादिति दिव्यास्तथाऽनदन् ॥ 3-291-19(27138)
[दशकन्धरराजसून्वोस्तथा युद्धमभून्महत्।
अलब्धोपममन्यत्रतयोरेव तथाऽभवत् ॥] 3-291-20(27139)
सरामाय महाघोरं विससर्ज निशाचरः।
शूलमिन्द्राशनिप्रख्यं ब्रह्मदण्डभिवोद्यतम् ॥ 3-291-21(27140)
तच्छूलं सत्वरं रामश्चच्छेद निशितैः शरैः।
तद्दृष्ट्वा दुष्करं कर्म रावणं भयमाविशत् ॥ 3-291-22(27141)
ततः क्रुद्धः ससर्जाशु दशग्रीवः शिताञ्छरान्।
सहस्रायुतशो रामे शस्त्राणि विविधानि च ॥ 3-291-23(27142)
ततो भुशुण्डीः शूलानि मुसलानि परश्वथान्।
शक्तीश्च विविधाकाराः शतघ्नीश्च शितान्क्षुरान् ॥ 3-291-24(27143)
तां मायांविविधां दृष्ट्वा दशग्रीवस्य रक्षसः।
भयात्प्रदुद्रुवुः सर्वे वानराः सर्वतोदिशम् ॥ 3-291-25(27144)
ततः सुपत्रं सुमुखंहेमपुङ्गं शरोत्तमम्।
तूणादादाय काकुत्स्थो ब्रह्मास्त्रेण युयोज ह ॥ 3-291-26(27145)
तं प्रेक्ष्यबाणं रामेण ब्रह्मास्त्रेणानुमन्त्रितम्।
जहृषुर्देवगन्धर्वा दृष्ट्वा शक्रपुरोगमाः ॥ 3-291-27(27146)
अल्पावशेषमायुश्च ततोऽमन्यन्त रक्षसः।
ब्रह्मास्त्रोदीरणाच्छत्रोर्देवदानवकिंनराः ॥ 3-291-28(27147)
ततः ससर्ज तं रामः शरमप्रतिमौजसम्।
रावणान्तकरं घोरं ब्रह्मदण्डमिवोद्यतम् ॥ 3-291-29(27148)
मुक्तमात्रेण रामेण दूराकृष्टेन भारत।
स तेन राक्षसश्रेष्ठः सरथः साश्वसारथिः।
प्रजज्वाल महाज्वालेनाग्निनाभिपरिप्लुतः ॥ 3-291-30(27149)
ततः प्रहृष्टास्त्रिदशाः सहगन्धर्वचारणाः।
निहतं रावणं दृष्ट्वा रामेणाक्लिष्टकर्मणा ॥ 3-291-31(27150)
तत्यजुस्तं महाभागं पञ्चभूतानि रावणम्।
भ्रंशितः सर्वलोकेषु स हि ब्रह्मास्त्रतेजसा ॥ 3-291-32(27151)
शरीरधातवो ह्यस् मासं रुधिरमेव च।
नेशुर्ब्रह्मास्त्रनिर्दग्दा न च भस्माप्यदृश्यत ॥ 3-291-33(27152)

इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि एकनवत्यधिकद्विशततमोऽध्यायः ॥ 291 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-291-8 रामस्य रूपं कृत्वालक्ष्मणमभिदुद्राव लक्ष्मणस्य रूपं कृत्वा राममिति येजना ॥ 3-291-32 पञ्चभूतानि तत्यजुर्मृत इत्यर्थः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.